|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.89. अध्यायः 089
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
परेद्युः प्रभाते सभार्येण कुशिकेन च्यवनावलोकनाय वनप्रवेशः॥ 1 ॥ च्यवनेन कुशिकम्प्रति स्वयोगप्रभावसृष्टस्वर्गप्रदर्शनपूर्वकमभिमतवरवरणप्रेरणा॥ 2 ॥

Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः।
कृतपूर्वाह्णिकः प्रायात्सभार्यस्तद्वनं प्रति॥ 13-89-1(85005)
ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम्।
मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम्।
तत्र दिव्यानभिप्रायान्ददर्श कुशिकस्तदा॥ 13-89-2(85006)
पर्वतान्रूप्यसानूंश्च नलिनीश्च सपङ्कजाः।
चित्रशालाश्च विविधास्तोरणानि च भारत।
शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम्॥ 13-89-3(85007)
सहकारान्प्रफुल्लांश्च केतकोद्दालकान्वरान्।
अशोकान्सहकुन्दांश्च फुल्लांश्चैवातिमुक्तकान्॥ 13-89-4(85008)
चम्पकांस्तिलकान्भव्यान्पनसान्वञ्जुलानपि।
पुष्पितान्कर्णिकारांश्च तत्रतत्र ददर्श ह॥ 13-89-5(85009)
श्यामान्वारणपुष्पांश्च तथाऽष्टपदिका लताः।
तत्रतत्र परिक्लृप्ता ददर्श स महीपतिः॥ 13-89-6(85010)
रम्यान्पद्मोत्पलधरान्सर्वर्तुकुसुमांस्तथा।
विमानप्रतिमांश्चापि प्रासादाञ्शैलसन्निभान्॥ 13-89-7(85011)
शीतलानि च तोयानि क्वचिदुष्णानि भारत।
आसनानि विचित्राणि शयनप्रवराणि च॥ 13-89-8(85012)
पर्यङ्कान्रत्नसौवर्णान्परार्ध्यास्तरणास्तृतान्।
भक्ष्यं भोज्यमनन्तं च तत्रतत्रोपकल्पितम्॥ 13-89-9(85013)
वाणीवादाञ्छुकांश्चैव शारिका भृङ्गराजकान्।
कोकिलाञ्छतपत्रांश्च सकोयष्टिककुक्कुभान्॥ 13-89-10(85014)
मयूरान्कुक्कुटांश्चापि दात्यूहाञ्जीवजीवकान्।
चकोरान्वानरान्हंसान्सारसांश्चक्रसाह्वयान्॥ 13-89-11(85015)
समन्ततः प्रणदतो ददर्श सुमनोहरान्।
क्वचिदप्सरसां सङ्घान्गन्धर्वाणां च पार्थिव॥ 13-89-12(85016)
कान्ताभिरपरांस्तत्र परिष्वक्रान्ददर्श ह।
न ददर्श च तान्भूयो ददर्श च पुनर्नृपः॥ 13-89-13(85017)
गीतध्वनिं सुमधुरं तथैवाध्ययनध्वनिम्।
हंसानसुमधुरांश्चापि तत्र शुश्राव पार्थिवः॥ 13-89-14(85018)
तं दृष्ट्वाऽत्यद्भुतं राजा मनसाऽचिन्तयत्तदा।
स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु॥ 13-89-15(85019)
अहो सह शरीरेण प्राप्तोस्मि परमां गतिम्।
उत्तरान्वा कुरून्पुण्यानथवाऽप्यमरावतीम्॥ 13-89-16(85020)
किञ्चेदं महदाश्चर्यं सम्पश्यामीत्यचिन्तयत्।
एवं सञ्चिन्तयन्नेव ददर्श मुनिपुङ्गवम्॥ 13-89-17(85021)
तस्मिन्विमाने सौवर्णे मणिस्तम्भसमाकुले।
महार्हे शयने दिव्ये शयानं भृगुनन्दनम्॥ 13-89-18(85022)
तमभ्ययात्प्रहर्षेण नरेन्द्रः सह भार्यया।
अन्तर्हितस्ततो भूयश्च्यवनः शयनं व तत्॥ 13-89-19(85023)
ततोऽन्यस्मिन्वनोद्देशे पुनरेव ददर्श तम्।
कौश्यां बृस्यां समासीनं जपमानं महाव्रतम्॥ 13-89-20(85024)
एवं योगबलाद्विप्रो मोहयामास पार्थिवम्॥ 13-89-21(85025)
क्षणेन तद्वनं चैव ते चैवाप्सरसां गणाः।
गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत॥ 13-89-22(85026)
निःशब्दमभवच्चापि गङ्गाकूलं पुनर्नृप।
कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा॥ 13-89-23(85027)
ततः स राजा कुशिकः सभार्यस्तेन कर्मणा।
विस्मयं परमं प्राप्तस्तद्दृष्ट्वा महदद्भुतम्॥ 13-89-24(85028)
ततः प्रोवाच कुशिको भार्या हर्षसमन्वितः।
पश्य भद्रे यथाभावाश्चित्रा दृष्टाः सुदुर्लभाः।
प्रसादाद्भृगुमुख्यस्य किमन्यत्र तपोबलात्॥ 13-89-25(85029)
तपसा तदवाप्यं हि यन्न शक्यं मनोरथैः।
त्रैलोक्यराज्यादपि हि तप एव विशिष्यते॥ 13-89-26(85030)
तपसा हि सुतप्तेनि क्रीडत्येष तपोधनः।
अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः॥ 13-89-27(85031)
इच्छयैष तपोवीर्यादन्याँल्लोकान्सृजेदपि।
ब्राह्मणा एव जायेरन्पुण्यवाग्बुद्धिकर्मणा॥ 13-89-28(85032)
उत्सहेदिह कृत्वैव कोऽन्यो वै च्यवनादृते।
ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः॥ 13-89-29(85033)
ब्राह्मण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत्।
इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै॥ 13-89-30(85034)
सम्प्रेक्ष्योवाच नृपतिं क्षिप्रमागम्यतामिति।
इत्युक्तः सहभार्यस्तु सोभ्यगच्छन्महामुनिम्॥ 13-89-31(85035)
शिरसा वन्दनीयं तमवन्दत च पार्थिवः।
तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम्।
निषीदेत्यब्रवीद्धीमान्सान्त्वयन्पुरुषर्षभः॥ 13-89-32(85036)
ततः प्रकृतिमापन्नो भार्गवो नृपते नृपम्।
उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत॥ 13-89-33(85037)
राजन्सम्यग्जितानीह पञ्चपञ्च स्वयं त्वया।
मनःषष्ठानीन्द्रियाणि कृच्छ्रान्मुक्तोसि तेन वै॥ 13-89-34(85038)
सम्यगाराधितः पुत्र त्वयाऽहं वदतांवर।
न हि ते वृजितं किञ्चित्सुसूक्ष्ममपि दृश्यते॥ 13-89-35(85039)
अनुजानीहि मां राजन्गमिष्यामि यथागतम्।
प्रीतोस्मि तव राजेन्द्र वरश्च प्रतिगृह्यताम्॥ 13-89-36(85040)
कुशिक उवाच। 13-89-37x(7074)
अग्निमध्ये गतेनेव भगवन्सन्निधौ मया।
वर्तितं भृगुशार्दूल यन्न दग्धोस्मि तद्बहु॥ 13-89-37(85041)
एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन।
यत्प्रीतोसि ममाचारैः कुलं त्रातं च मेऽनघ॥ 13-89-38(85042)
एथ मेऽन्द्रग्रहो विप्र जीविते च प्रयोजनम्।
एतद्राज्यफलं चैव तपसश्च फलं मम॥ 13-89-39(85043)
यदि त्वं प्रीतिमान्विप्र मयि वै भृगुनन्दन।
अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि॥ ॥ 13-89-40(85044)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोननवतितमोऽध्यायः॥ 89॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-89-29 उत्साहमिह कृत्वेदं कोऽन्यो वै च्यवनादृते। ब्राह्मण्यं दुर्लभं लोके तल्लव्ध्वा दुर्लभं तपः। सिद्धिस्तत्रापि दुष्प्रापा सिद्धेरपि परा गतिः इति ध.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|